|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.170. अध्यायः 170
Mahabharata - Vana Parva - Chapter Topics
अस्त्रविद्यासमाप्तौ सहस्राक्षेण गुरुदक्षिणात्वेन निवातकवचानां क्षपणं भिक्षितेनार्जुनेन तदर्थं प्रस्थानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-170-0x(2313)(22500)
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः।
रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत् ॥ 3-170-1(22501)
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ 3-170-2(22502)
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा।
`अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः' ॥ 3-170-3(22503)
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ 3-170-4(22504)
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ 3-170-5(22505)
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च।
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ॥ 3-170-6(22506)
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय।
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ॥ 3-170-7(22507)
तव गुर्वर्थकालोऽयं समुत्पन्नः परंतप।
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ॥ 3-170-8(22508)
ततोऽहमब्रवं राजन्देवराजमिदं वचः।
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ॥ 3-170-9(22509)
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा।
नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥ 3-170-10(22510)
निवातकवचा नाम दानवा मम शत्रवः।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ 3-170-11(22511)
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः।
तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ 3-170-12(22512)
ततो मातलिसंयुक्तं मयूरसमरोमभिः।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ 3-170-13(22513)
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥ 3-170-14(22514)
अभेद्यं कवचं चेदं स्पर्सरूपवदुत्तमम्।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ 3-170-15(22515)
ततः प्रायामहं तेन स्यन्दनेन विराजता।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ 3-170-16(22516)
ततो देवाः सर्व एव तेन घोषेण बोधिताः।
मन्वाना देवराजं मां समाजग्मुर्विशांपते ॥ 3-170-17(22517)
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन।
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ॥ 3-170-18(22518)
निवातकवचानां तु प्रस्थितं मां तधैपिणम्।
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ॥ 3-170-19(22519)
`ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते'।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ॥ 3-170-20(22520)
रथेनानेन मघवा जितवाञ्शम्बरं युधि।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ 3-170-21(22521)
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि।
रथेनानेन दैत्यानां जितवान्मघवा युधि ॥ 3-170-22(22522)
न्वमप्यनेन कौन्तेय निबातकवचान्रणे।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥ 3-170-23(22523)
अयंच शङ्खप्रवरो येन जेतासि दानवान्।
अनेन विजिता लोका शक्रेणापि महात्मना ॥ 3-170-24(22524)
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्।
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ॥ 3-170-25(22525)
स शङ्खी कवची वाणी प्रगृहीतशरासनः।
दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ॥ 3-170-26(22526)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-170-6 पञ्चभिः प्रयोगादिभिः ॥ 3-170-7 आवृत्तिः पुनःपुनः प्रयोगोपसंहारौ। प्रायश्चित्तं अस्त्राग्निना दग्धानामनागसां पुनरुज्जीवनम्। प्रतीघातं परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनम् ॥ 3-170-8 गुर्वर्यो दक्षिणा। वेत्स्यामि वेदयिष्यामि। परं कार्यमिति शेषः ॥ 3-170-9 विषह्यं शक्यम् ॥ 3-170-16 प्रायां प्रयाणं कृतवान् ॥ 3-170-19 आशास्त आशाध्वम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|